वांछित मन्त्र चुनें

व॒यमि॑न्द्र त्वा॒यव॑: सखि॒त्वमा र॑भामहे । ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

अंग्रेज़ी लिप्यंतरण

vayam indra tvāyavaḥ sakhitvam ā rabhāmahe | ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṁ jyākā adhi dhanvasu ||

पद पाठ

व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । स॒खि॒ऽत्वम् । आ । र॒भा॒म॒हे॒ । ऋ॒तस्य॑ । नः॒ । प॒था । न॒याति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥ १०.१३३.६

ऋग्वेद » मण्डल:10» सूक्त:133» मन्त्र:6 | अष्टक:8» अध्याय:7» वर्ग:21» मन्त्र:6 | मण्डल:10» अनुवाक:11» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (वयं त्वायवः) हम तुझे चाहनेवाले तेरी कामना करनेवाले (सखित्वम्) तेरे सखीपन को (आरभामहे) अपने अन्दर धारण करते हैं और उसके अनुरूप वर्त्तते हैं (विश्वानि दुरिता अति) सब पापों-दुःखों को अतिक्रान्त करके (ऋतस्य पथा नय) सत्य के मार्ग से ले चल (नभन्ताम्०) पूर्ववत् ॥६॥
भावार्थभाषाः - प्रजा सदा राजा की मित्रता की कामना करती रहे और उसके बताये सत्यमार्ग नियम से चले ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (वयं त्वायवः) वयं त्वां कामयमानाः (सखित्वम्-आ रभामहे) तव सख्यं धारयामस्तदनुरूपं वर्तामहे (विश्वानि दुरिता-अति-ऋतस्य पथा नय) सर्वाणि पापानि दुःखानि खल्वतिक्राम्य-पृथक्कृत्यास्मान् सत्यस्य मार्गेण नय (नभन्ताम्०) पूर्ववत् ॥६॥